Tritiya Skandha
श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय - ३१
03310010 श्रीभगवानुवाच
03310011 कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये
03310012 स्त्रियाः प्रविष्ट उदरं पुंसो रेतःकणाश्रयः
03310021 कललं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम्
03310022 दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम्
03310031 मासेन तु शिरो द्वाभ्यां
बाह्वङ्घ्र्याद्यङ्गविग्रहः
03310032 नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद्भवस्त्रिभिः
03310041 चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद्भवः
03310042 षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे
03310051 मातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मते
03310052 शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे
03310061 कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम्
03310062 मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यैः
क्षुधितैर्मुहुः
03310071 कटुतीक्ष्णोष्णलवण रूक्षाम्लादिभिरुल्बणैः
03310072 मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः
03310081 उल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृतः
03310082 आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः
03310091 अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे
03310092 तत्र लब्धस्मृतिर्दैवात्कर्म जन्मशतोद्भवम्
03310093 स्मरन्दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते
03310101 आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपितः
03310102 नैकत्रास्ते सूतिवातैर्विष्ठाभूरिव सोदरः
03310111 नाथमान ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः
03310112 स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः
03310120 जन्तुरुवाच
03310121 तस्योपसन्नमवितुं जगदिच्छयात्त
03310122 नानातनोर्भुवि चलच्चरणारविन्दम्
03310123 सोऽहं व्रजामि शरणं ह्यकुतोभयं मे
03310124 येनेदृशी गतिरदर्श्यसतोऽनुरूपा
03310131 यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा
03310132 भूतेन्द्रियाशयमयीमवलम्ब्य मायाम्
03310133 आस्ते विशुद्धमविकारमखण्डबोधम्
03310134 आतप्यमानहृदयेऽवसितं नमामि
03310141 यः पञ्चभूतरचिते रहितः शरीरे
03310142 च्छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम्
03310143 तेनाविकुण्ठमहिमानमृषिं तमेनं
03310144 वन्दे परं प्रकृतिपूरुषयोः पुमांसम्
03310151 यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन्
03310152 सांसारिके पथि चरंस्तदभिश्रमेण
03310153 नष्टस्मृतिः पुनरयं प्रवृणीत लोकं
03310154 युक्त्या कया महदनुग्रहमन्तरेण
03310161 ज्ञानं यदेतददधात्कतमः स देवस्
03310162 त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः
03310163 तं जीवकर्मपदवीमनुवर्तमानास्
03310164 तापत्रयोपशमनाय वयं भजेम
03310171 देह्यन्यदेहविवरे जठराग्निनासृग्
03310172 विण्मूत्रकूपपतितो भृशतप्तदेहः
03310173 इच्छन्नितो विवसितुं गणयन्स्वमासान्
03310174 निर्वास्यते कृपणधीर्भगवन्कदा नु
03310181 येनेदृशीं गतिमसौ दशमास्य ईश
03310182 सङ्ग्राहितः पुरुदयेन भवादृशेन
03310183 स्वेनैव तुष्यतु कृतेन स दीननाथः
03310184 को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात्
03310191 पश्यत्ययं धिषणया ननु सप्तवध्रिः
03310192 शारीरके दमशरीर्यपरः स्वदेहे
03310193 यत्सृष्टयासं तमहं पुरुषं पुराणं
03310194 पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम्
03310201 सोऽहं वसन्नपि विभो बहुदुःखवासं
03310202 गर्भान्न निर्जिगमिषे बहिरन्धकूपे
03310203 यत्रोपयातमुपसर्पति देवमाया
03310204 मिथ्या मतिर्यदनु संसृतिचक्रमेतत्
03310211 तस्मादहं विगतविक्लव उद्धरिष्य
03310212 आत्मानमाशु तमसः सुहृदात्मनैव
03310213 भूयो यथा व्यसनमेतदनेकरन्ध्रं
03310214 मा मे भविष्यदुपसादितविष्णुपादः
03310220 कपिल उवाच
03310221 एवं कृतमतिर्गर्भे दशमास्यः स्तुवन्नृषिः
03310222 सद्यः क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुतः
03310231 तेनावसृष्टः सहसा कृत्वावाक्षिर आतुरः
03310232 विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो
हतस्मृतिः
03310241 पतितो भुव्यसृङ्मिश्रः विष्ठाभूरिव चेष्टते
03310242 रोरूयति गते ज्ञाने विपरीतां गतिं गतः
03310251 परच्छन्दं न विदुषा पुष्यमाणो जनेन सः
03310252 अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः
03310261 शायितोऽशुचिपर्यङ्के जन्तुः स्वेदजदूषिते
03310262 नेशः कण्डूयनेऽङ्गानामासनोत्थानचेष्टने
03310271 तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः
03310272 रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा
03310281 इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च
03310282 अलब्धाभीप्सितोऽज्ञानादिद्धमन्युः शुचार्पितः
03310291 सह देहेन मानेन वर्धमानेन मन्युना
03310292 करोति विग्रहं कामी कामिष्वन्ताय चात्मनः
03310301 भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत्
03310302 अहं ममेत्यसद्ग्राहः करोति कुमतिर्मतिम्
03310311 तदर्थं कुरुते कर्म यद्बद्धो याति संसृतिम्
03310312 योऽनुयाति ददत्क्लेशमविद्याकर्मबन्धनः
03310321 यद्यसद्भिः पथि पुनः शिश्नोदरकृतोद्यमैः
03310322 आस्थितो रमते जन्तुस्तमो विशति पूर्ववत्
03310331 सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः
क्षमा
03310332 शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम्
03310341 तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु
03310342 सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च
03310351 न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः
03310352 योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः
03310361 प्रजापतिः स्वां दुहितरं दृष्ट्वा
तद्रूपधर्षितः
03310362 रोहिद्भूतां सोऽन्वधावदृक्षरूपी हतत्रपः
03310371 तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान्
03310372 ऋषिं नारायणमृते योषिन्मय्येह मायया
03310381 बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम्
03310382 या करोति पदाक्रान्तान्भ्रूविजृम्भेण केवलम्
03310391 सङ्गं न कुर्यात्प्रमदासु जातु योगस्य पारं
परमारुरुक्षुः
03310392 मत्सेवया प्रतिलब्धात्मलाभो वदन्ति या
निरयद्वारमस्य
03310401 योपयाति शनैर्माया योषिद्देवविनिर्मिता
03310402 तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम्
03310411 यां मन्यते पतिं मोहान्मन्मायामृषभायतीम्
03310412 स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो
वित्तापत्यगृहप्रदम्
03310421 तामात्मनो विजानीयात्पत्यपत्यगृहात्मकम्
03310422 दैवोपसादितं मृत्युं मृगयोर्गायनं यथा
03310431 देहेन जीवभूतेन लोकाल्लोकमनुव्रजन्
03310432 भुञ्जान एव कर्माणि करोत्यविरतं पुमान्
03310441 जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयः
03310442 तन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भवः
03310451 द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा
03310452 तत्पञ्चत्वमहंमानादुत्पत्तिर्द्रव्यदर्शनम्
03310461 यथाक्ष्णोर्द्रव्यावयव दर्शनायोग्यता यदा
03310462 तदैव चक्षुषो द्रष्टुर्द्रष्टृत्वायोग्यतानयोः
03310471 तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न
सम्भ्रमः
03310472 बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह
03310481 सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया
03310482 मायाविरचिते लोके चरेन्न्यस्य कलेवरम्
No comments
Note: Only a member of this blog may post a comment.