श्री कृष्णाष्टकम् ।। Sansthanam.
अथ श्री कृष्णाष्टकम् ४।।
श्रियाश्लिष्टो विष्णुः स्थिरचरगुरुर्वेदविषयो
धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः |
गदी शङ्खी चक्री विमलवनमाली स्थिररुचिः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ||१||
यतः सर्वं जातं वियदनिलमुख्यं जगदिदम्
स्थितौ निःशेषं योऽवति निजसुखांशेन मधुहा |
लये सर्वं स्वस्मिन्हरति कलया यस्तु स विभुः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ||२||
असूनायम्यादौ यमनियममुख्यैः सुकरणै/-
र्र्निरुद्ध्येदं चित्तं हृदि विलयमानीय सकलम् |
यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौ
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ||३||
पृथिव्यां तिष्ठन्यो यमयति महीं वेद न धरा
यमित्यादौ वेदो वदति जगतामीशममलम् |
नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ||४||
महेन्द्रादिर्देवो जयति दितिजान्यस्य बलतो
न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमुते |
बलारातेर्गर्वं परिहरति योऽसौ विजयिनः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ||५||
विना यस्य ध्यानं व्रजति पशुतां सूकरमुखाम्
विना यस्य ज्ञानं जनिमृतिभयं याति जनता |
विना यस्य स्मृत्या कृमिशतजनिं याति स विभुः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ||६||
नरातङ्कोट्टङ्कः शरणशरणो भ्रान्तिहरणो
घनश्यामो वामो व्रजशिशुवयस्योऽर्जुनसखः |
स्वयंभूर्भूतानां जनक उचिताचारसुखदः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ||७||
यदा धर्मग्लानिर्भवति जगतां क्षोभकरणी
तदा लोकस्वामी प्रकटितवपुः सेतुधृदजः |
सतां धाता स्वच्छो निगमगणगीतो व्रजपतिः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ||८||
इति हरिरखिलात्माराधितः शंकरेण
श्रुतिविशदगुणोऽसौ मातृत्मोक्षार्थमाद्यः |
यतिवरनिकटे श्रीयुक्त आविर्बभूव
स्वगुणवृत उदारः शण्खचक्राञ्जहस्तः ||९||
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ कृष्णाष्टकं संपूर्णम् ।।

No comments
Note: Only a member of this blog may post a comment.