Breaking News

ॐ नमो नारायणाय अष्टाक्षरमाहात्म्यं ॥ Sansthanam.

॥ ॐ नमो नारायणाय अष्टाक्षरमाहात्म्यं ॥
श्रीशुक उवाच -- किं जपन् मुच्यते तात सततं विष्णुतत्परः । संसारदुःखात् सर्वेषां हिताय वद मे पितः ॥ १॥ व्यास उवाच -- अष्टाक्षरं प्रवक्ष्यामि मन्त्राणां मन्त्रमुत्तमम् । यं जपन् मुच्यते मर्त्यो जन्मसंसारबन्धनात् ॥ २॥ हृत्पुण्डरीकमध्यस्थं शङ्खचक्रगदाधरम् । एकाग्रमनसा ध्यात्वा विष्णुं कुर्याज्जपं द्विजः ॥ ३॥ एकान्ते निर्जनस्थाने विष्णवग्रे वा जलान्तिके । जपेदष्टाक्षरं मन्त्रं चित्ते विष्णुं निधाय वै ॥ ४॥ अष्टाक्षरस्य मन्त्रस्य ऋषिर्नारायणः स्वयम् । छन्दश्च दैवी गायत्री परमात्मा च देवता ॥ ५॥ शुक्लवर्णं च ॐकारं नकारं रक्तमुच्यते । मोकारं वर्णतः कृष्णं नाकारं रक्तमुच्यते ॥ ६॥ राकारं कुङ्कुमाभं तु यकारं पीतमुच्यते । णाकारमञ्जनाभं तु यकारं बहुवर्णकम् ॥ ७॥ ॐ नमो नारायणायेति मन्त्रः सर्वार्थसाधकः । भक्तानां जपतां तात स्वर्गमोक्षफलप्रदः । वेदानां प्रणवेनैष सिद्धो मन्त्रः सनातनः ॥ ८॥ सर्वपापहरः श्रीमान् सर्वमन्त्रेषु चोत्तमः । एनमष्टाक्षरं मन्त्रं जपन्नारायणं स्मरेत् ॥ ९॥ सन्ध्यावसाने सततं सर्वपापैः प्रमुच्यते । एष एव परो मन्त्र एष एव परं तपः ॥ १०॥ एष एव परो मोक्ष एष स्वर्ग उदाहृतः । सर्ववेदरहस्येभ्यः सार एष समुद्धॄतः ॥ ११॥ विष्णुना वैष्णवानां हि हिताय मनुजां पुरा । एवं ज्ञात्वा ततो विप्रो ह्यष्टाक्षरमिमं स्मरेत् ॥ १२॥ स्नात्वा शुचिः शुचौ देशे जपेत् पापविशुद्धये । जपे दाने च होमे च गमने ध्यानपर्वसु ॥ १३॥ जपेन्नारायणं मन्त्रं कर्मपूर्वे परे तथा । जपेत्सहस्रं नियुतं शुचिर्भूत्वा समाहितः ॥ १४॥ मासि मासि तु द्वादश्यां विष्णुभक्तो द्विजोत्तमः । स्नात्वा शुचिर्जपेद्यस्तु नमो नारायणं शतम् ॥ १५॥ स गच्छेत् परमं देवं नारायणमनामयम् । गन्धपुष्पादिभिर्विष्णुमनेनाराध्य यो जपेत् ॥ १६॥ महापातकयुक्तोऽपि मुच्यते नात्र संशयः । हृदि कृत्वा हरिं देवं मन्त्रमेनं तु यो जपेत् ॥ १७॥ सर्वपापविशुद्धात्मा स गच्छेत् परमां गतिम् । प्रथमेन तु लक्षेण आत्मशुद्धिर्भविष्यति ॥ १८॥ द्वितीयेन तु लक्षेण मनुसिद्धिमवाप्नुयात् । तृतीयेन तु लक्षेण स्वर्गलोकमवाप्नुयात् ॥ १९॥ चतुर्थेन तु लक्षेण हरेः सामीप्यमाप्नुयात् । पञ्चमेन तु लक्षेण निर्मलं ज्ञानमाप्नुयात् ॥ २०॥ तथा षष्ठेन लक्षेण भवेद्विष्णौ स्थिरा मतिः । सप्तमेन तु लक्षेण स्वरूपं प्रतिपद्यते ॥ २१॥ अष्टमेन तु लक्षेण निर्वाणमधिगच्छति । स्वस्वधर्मसमायुक्तो जपं कुर्याद् द्विजोत्तमः ॥ २२॥ एतत् सिद्धिकरं मन्त्रमष्टाक्षरमतन्द्रितः । दुःस्वप्नासुरपैशाचा उरगा ब्रह्मराक्षसाः ॥ २३॥ जापिनं नोपसर्पन्ति चौरक्षुद्राधयस्तथा । एकाग्रमनसाव्यग्रो विष्णुभक्तो दृढव्रतः ॥ २४॥ जपेन्नारायणं मन्त्रमेतन्मृत्युभयापहम् । मन्त्राणां परमो मन्त्रो देवतानां च दैवतम् ॥ २५॥ गुह्यानां परमं गुह्यमोङ्काराद्यक्षराष्टकम् । आयुष्यं धनपुत्रांश्च पशून् विद्यां महद्यशः ॥ २६॥ धर्मार्थकाममोक्षांश्च लभते च जपन्नरः । एतत् सत्यं च धर्म्यं च वेदश्रुतिनिदर्शनात् ॥ २७॥ एतत् सिद्धिकरं नृणां मन्त्ररूपं न संशयः । ऋषयः पितरो देवाः सिद्धास्त्वसुरराक्षसाः ॥ २८॥ एतदेव परं जप्त्वा परां सिद्धिमितो गताः । ज्ञात्वा यस्त्वात्मनः कालं शास्त्रान्तरविधानतः । अन्तकाले जपन्नेति तद्विष्णोः परमं पदम् ॥ २९॥ नारायणाय नम इत्ययमेव सत्यं संसारघोरविषसंहरणाय मन्त्रः । श्रृण्वन्तु भव्यमतयो मुदितास्त्वरागा उच्चैस्तरामुपदिशाम्यहमूर्ध्वबाहुः ॥ ३०॥ भूत्वोर्ध्वबाहुरद्याहं सत्यपूर्वं ब्रवीम्यहम् । हे पुत्र शिष्याः श्रृणुत न मन्त्रोऽष्टाक्षरात्परः ॥ ३१॥ सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते । वेदाच्छास्त्रं परं नास्ति न देवः केशवात् परः ॥ ३२॥ आलोच्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ ३३॥ इत्येतत् सकलं प्रोक्तं शिष्याणां तव पुण्यदम् । कथाश्च विविधाः प्रोक्ता मया भज जनार्दनम् ॥ ३४॥ अष्टाक्षरमिमं मन्त्रं सर्वदुःखविनाशनम् । जप पुत्र महाबुद्धे यदि सिद्धिमभीप्ससि ॥ ३५॥ इदं स्तवं व्यासमुखात्तु निस्सृतं सन्ध्यात्रये ये पुरुषाः पठन्ति । ते धौतपाण्डुरपटा इव राजहंसाः संसारसागरमपेतभयास्तरन्ति ॥ ३६॥ इति श्रीनरसिंहपुराणे अष्टाक्षरमाहात्म्यं नाम सप्तदशोऽध्यायः ॥ १७॥

No comments

Note: Only a member of this blog may post a comment.