Breaking News

Tritiya Skandha

श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय - 24.

03240010  मैत्रेय उवाच
03240011  निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः
03240012  दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन्
03240020  ऋषिरुवाच
03240021  मा खिदो राजपुत्रीत्थमात्मानं प्रत्यनिन्दिते
03240022  भगवांस्तेऽक्षरो गर्भमदूरात्सम्प्रपत्स्यते
03240031  धृतव्रतासि भद्रं ते दमेन नियमेन च
03240032  तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज
03240041  स त्वयाराधितः शुक्लो वितन्वन्मामकं यशः
03240042  छेत्ता ते हृदयग्रन्थिमौदर्यो ब्रह्मभावनः
03240050  मैत्रेय उवाच
03240051  देवहूत्यपि सन्देशं गौरवेण प्रजापतेः
03240052  सम्यक्ष्रद्धाय पुरुषं कूटस्थमभजद्गुरुम्
03240061  तस्यां बहुतिथे काले भगवान्मधुसूदनः
03240062  कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि
03240071  अवादयंस्तदा व्योम्नि वादित्राणि घनाघनाः
03240072  गायन्ति तं स्म गन्धर्वा नृत्यन्त्यप्सरसो मुदा
03240081  पेतुः सुमनसो दिव्याः खेचरैरपवर्जिताः
03240082  प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च
03240091  तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम्
03240092  स्वयम्भूः साकमृषिभिर्मरीच्यादिभिरभ्ययात्
03240101  भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन्
03240102  तत्त्वसङ्ख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट्
03240111  सभाजयन्विशुद्धेन चेतसा तच्चिकीर्षितम्
03240112  प्रहृष्यमाणैरसुभिः कर्दमं चेदमभ्यधात्
03240120  ब्रह्मोवाच
03240121  त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकतः
03240122  यन्मे सञ्जगृहे वाक्यं भवान्मानद मानयन्
03240131  एतावत्येव शुश्रूषा कार्या पितरि पुत्रकैः
03240132  बाढमित्यनुमन्येत गौरवेण गुरोर्वचः
03240141  इमा दुहितरः सत्यस्तव वत्स सुमध्यमाः
03240142  सर्गमेतं प्रभावैः स्वैर्बृंहयिष्यन्त्यनेकधा
03240151  अतस्त्वमृषिमुख्येभ्यो यथाशीलं यथारुचि
03240152  आत्मजाः परिदेह्यद्य विस्तृणीहि यशो भुवि
03240161  वेदाहमाद्यं पुरुषमवतीर्णं स्वमायया
03240162  भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने
03240171  ज्ञानविज्ञानयोगेन कर्मणामुद्धरन्जटाः
03240172  हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः
03240181  एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः
03240182  अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति
03240191  अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः
03240192  लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः
03240200  मैत्रेय उवाच
03240201  तावाश्वास्य जगत्स्रष्टा कुमारैः सहनारदः
03240202  हंसो हंसेन यानेन त्रिधामपरमं ययौ
03240211  गते शतधृतौ क्षत्तः कर्दमस्तेन चोदितः
03240212  यथोदितं स्वदुहितः प्रादाद्विश्वसृजां ततः
03240221  मरीचये कलां प्रादादनसूयामथात्रये
03240222  श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम्
03240231  पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम्
03240232  ख्यातिं च भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम्
03240241  अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते
03240242  विप्रर्षभान्कृतोद्वाहान्सदारान्समलालयत्
03240251  ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम्
03240252  प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम्
03240261  स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम्
03240262  विविक्त उपसङ्गम्य प्रणम्य समभाषत
03240271  अहो पापच्यमानानां निरये स्वैरमङ्गलैः
03240272  कालेन भूयसा नूनं प्रसीदन्तीह देवताः
03240281  बहुजन्मविपक्वेन सम्यग्योगसमाधिना
03240282  द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम्
03240291  स एव भगवानद्य हेलनं न गणय्य नः
03240292  गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः
03240301  स्वीयं वाक्यमृतं कर्तुमवतीर्णोऽसि मे गृहे
03240302  चिकीर्षुर्भगवान्ज्ञानं भक्तानां मानवर्धनः
03240311  तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव
03240312  यानि यानि च रोचन्ते स्वजनानामरूपिणः
03240321  त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा सदाभिवादार्हणपादपीठम्
03240322  ऐश्वर्यवैराग्ययशोऽवबोध वीर्यश्रिया पूर्तमहं प्रपद्ये
03240331  परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम्
03240332  आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये
03240341  अ स्माभिपृच्छेऽद्य पतिं प्रजानां त्वयावतीर्णर्ण उताप्तकामः
03240342  परिव्रजत्पदवीमास्थितोऽहं चरिष्ये त्वां हृदि युञ्जन्विशोकः
03240350  श्रीभगवानुवाच
03240351  मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके
03240352  अथाजनि मया तुभ्यं यदवोचमृतं मुने
03240361  एतन्मे जन्म लोकेऽस्मिन्मुमुक्षूणां दुराशयात्
03240362  प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्मदर्शने
03240371  एष आत्मपथोऽव्यक्तो नष्टः कालेन भूयसा
03240372  तं प्रवर्तयितुं देहमिमं विद्धि मया भृतम्
03240381  गच्छ कामं मयापृष्टो मयि सन्न्यस्तकर्मणा
03240382  जित्वा सुदुर्जयं मृत्युममृतत्वाय मां भज
03240391  मामात्मानं स्वयंज्योतिः सर्वभूतगुहाशयम्
03240392  आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि
03240401  मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम्
03240402  वितरिष्ये यया चासौ भयं चातितरिष्यति
03240410  मैत्रेय उवाच
03240411  एवं समुदितस्तेन कपिलेन प्रजापतिः
03240412  दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह
03240421  व्रतं स आस्थितो मौनमात्मैकशरणो मुनिः
03240422  निःसङ्गो व्यचरत्क्षोणीमनग्निरनिकेतनः
03240431  मनो ब्रह्मणि युञ्जानो यत्तत्सदसतः परम्
03240432  गुणावभासे विगुण एकभक्त्यानुभाविते
03240441  निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक्स्वदृक्
03240442  प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः
03240451  वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि
03240452  परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः
03240461  आत्मानं सर्वभूतेषु भगवन्तमवस्थितम्
03240462  अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि
03240471  इच्छाद्वेषविहीनेन सर्वत्र समचेतसा
03240472  भगवद्भक्तियुक्तेन प्राप्ता भागवती गतिः

No comments

Note: Only a member of this blog may post a comment.