Breaking News

नारायणीयम् । भाग - 66. प्रभु के आने से गोपियों का खुश होना ।। SANSTHANAM.

नारायणीयम् । भाग -  66. प्रभु के आने से गोपियों का खुश होना ।। SANSTHANAM.

उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् ।
अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥ ६६-१॥

गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् ।
धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥ ६६-२॥

आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः ।
मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ताः ॥ ६६-३॥

तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् ।
ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥ ६६-४॥

चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु ।
गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥ ६६-५॥

सुमधुरनर्मालपनैः करसङ्ग्रहणैश्च चुम्बनोल्लासैः ।
गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥ ६६-६॥

वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् ।
तदपि विभो रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥ ६६-७॥

कन्दलितधर्मलेशं कुन्दमृदुस्मेरवक्‍त्रपाथोजम् ।
नन्दसुत त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥ ६६-८॥

विरहेष्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् ।
नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥ ६६-९॥

राधातुङ्गपयोधरसाधुपरिरम्भलोलुपात्मानम् ।
आराधये भवन्तं पवनपुराधीश शमय सकलगदान् ॥ ६६-१०॥

No comments

Note: Only a member of this blog may post a comment.