Breaking News

नारायणीयम् । भाग - 68. गोपियों का प्रभु के साथ आना ।। SANSTHANAM.

नारायणीयम् । भाग - 68. गोपियों का प्रभु के साथ आना ।। SANSTHANAM.

तव विलोकनाद्गोपिकाजनाः प्रमदसङ्कुलाः पङ्कजेक्षण ।
अमृतधारया सम्प्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥ ६८-१॥

तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् ।
घनपयोधरे संविधाय सा पुलकसंवृता तस्थुषी चिरम् ॥ ६८-२॥

तव विभो पुरा कोमलं भुजं निजगलान्तरे पर्यवेष्टयत् ।
गलसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला ॥ ६८-३॥

अपगतत्रपा कापि कामिनी तव मुखाम्बुजात्पूगचर्वितम् ।
प्रतिगृहय्य तद्वक्‍त्रपङ्कजे निदधती गता पूर्णकामताम् ॥ ६८-४॥

विकरुणो वने संविहाय मामपगतोऽसि का त्वामि स्पृशेत् ।
इति सरोषया तवदेकया सजललोचनं वीक्षितो भवान् ॥ ६८-५॥

इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे ।
मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥ ६८-६॥

कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते ।
कतिचिदीदृशा मादृशेष्व्पीत्यभिहितो भवान्वल्लवीजनैः ॥ ६८-७॥

अयि कुमारिका नैव शङ्क्यतां कठिनता मयि प्रेमकातरे ।
मयि यु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्यूचिवान्भवान् ॥ ६८-८॥

अयि निशम्यतां जीववल्लभाः प्रियतमो जनो नेदृशो मम ।
तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ॥ ६८-९॥

इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् ।
कलितकौतुको रासखेलने गुरुपुरीपते पाहि मां गदात् ॥ ६८-१०॥

No comments

Note: Only a member of this blog may post a comment.