Ratrisuktam. रात्रिसूक्तम् ।। Sansthanam.
Ratrisuktam. रात्रिसूक्तम् ।। Sansthanam, Silvassa.
विश्वेश्वरी जगद्धात्रीं स्थितिसंहारकारिणीम् ।
निद्रां भगवतीं विष्णुरतुलां तेजसः प्रभुः ॥ १॥
ब्रह्मोवाच --
त्वं स्वाहा त्वं स्वधात्वं हि वषट्कारस्वरात्मिका ।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥ २॥
अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः ।
त्वमेव सन्ध्या सावित्री त्वं देवी जननी परा ॥ ३॥
त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् ।
त्वयैतत्पाल्यते देवि त्वमत्स्यन्तेच सर्वदा ॥ ४॥
विसृष्टौ सृष्टिरूपात्वम् स्थितिरूपाच पालने ।
तथा संहतिरूपान्ते जगतोऽस्य जगन्मये ॥ ५॥
महाविद्या महामाया महामेधामहास्मृतिः ।
महामोहा च भवती महादेवी महासुरी ॥ ६॥
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ॥ ७॥
त्वं श्रीस्त्वमीश्वरी त्वं ऱ्हीस्त्वं बुद्धिर्बोधलक्षणा ।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेवच ॥ ८॥
खङ्गिनी शृलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डीपरिधायुधा ॥ ९॥
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ।
परापराणां परमा त्वमेव परमेश्वरी ॥ १०॥
यच्च किञ्चित क्वचिद्वस्तु सदसद्धाखिलात्मिके ।
तत्त्व सर्वस्य या शक्तिः सात्वं किं स्तूयसे सदा ॥ ११॥
यया त्वया जगस्रष्टा जगत्पात्यतियो जगत् ।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥ १२॥
विष्णुः शरीरग्रहणमहमीशान एवच ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान्भवेत् ॥ १३॥
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ।
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥ १४॥
प्रबोधं न जगत्स्वामी नीयतामच्युतो लघु ।
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥ १५॥
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
।। इति रात्रिसूक्तम् ।।

No comments
Note: Only a member of this blog may post a comment.