Breaking News

अञ्जनशैलनाथस्तोत्रम् ।। Sansthanam.

अथ अञ्जनशैलनाथस्तोत्रम् ॥

पुलकिनि भुजमध्ये पूजयन्तं पुरन्ध्रीं,  भुवननयनपुण्यं पूरिताशेषकामम् ।
पुनरपि वृषशैले फुल्लनीलोत्पलाभं,  पुरुषमनुभवेयं पुण्डरीकायताक्षम् ॥ १॥

आजानसौहृदमपारकृपामृताब्धिं,  अव्याजवत्सलमवेलसुशीलमाद्यम् ।
आनन्दराशिमनुरागमयावरोधं,  आराधयामि हरिमञ्जनशैलनाथम् ॥ २॥

आताम्रपादमवदातसुवर्णचेलं,  आपीनबाहुशिखरोज्ज्वलशङ्खचक्रम् ।
आविस्स्मिताननममन्ददयाकटाक्षं,  आराधयामि हरिमञ्जनशैलनाथम् ॥ ३॥

अप्राकृतावयवसंहितसंनिवेशं,  आरूढयौवनमहीनकुमारभावम् ।
अम्लानकान्तिमतिवाङ्मनसानुभावं,  आराधयामि हरिमञ्जनशैलनाथम् ॥ ४॥

आशावकाशसमुदित्वरसर्वगन्धं,  आस्वादयत्सुगमसर्वरसस्वभावम् ।
आश्लेषगम्यसुखसंस्पृशनातिरेकं,  आराधयामि हरिमञ्जनशैलनाथम् ॥ ५॥

आदर्शयन्तमतिसङ्कुचिताक्षिशक्तिं,  आश्रावयन्तमखिलान् बधिरान् प्रकृत्या ।
आभाषयन्तमभितो नतमूकवर्गं,  आराधयामि हरिमञ्जनशैलनाथम् ॥ ६॥

आधावयन्तमतिमारुतमेव पङ्गून् ,  आजानुलम्बिभुजयन्तमहो कुबाहून् ।
अन्यांश्च कृतशिरसः प्रतिजीवयन्तं,  आराधयामि हरिमञ्जनशैलनाथम् ॥ ७॥

आजन्मनिर्धनजनानलकेशयन्तं,  अज्ञानपि त्रिदशदेशिकदेश्ययन्तम् ।
अह्नाय वन्ध्यमपि मर्त्यमवन्ध्ययन्तं,  आराधयामि हरिमञ्जनशैलनाथम् ॥ ८॥

आबद्धकङ्कणमशेषशरण्यतायां,  आपत्सहायमपराधसहं नतानाम् ।
आसन्नसामगसुखालससूरिवर्गं,  आराधयामि हरिमञ्जनशैलनाथम् ॥ ९॥

अध्यासितासनसरोजसनूपुराङ् घ्रिं,  आमुक्तवीरकटकायतवृत्तजङ्घम् ।
आश्चर्यजानुयुगमप्रतिमोरुकाण्डं,  आराधयामि हरिमञ्जनशैलनाथम् ॥ १०॥

आवर्तिनिम्ननिखिलाण्डनिदाननाभिं,  आयामिदोर्विवरकेलिगृहावरोधम् ।
आबद्धरत्नमयभूषभुजाचतुष्कं,  आराधयामि हरिमञ्जनशैलनाथम् ॥ ११॥

अंसावलम्बिमणिकुण्डलकान्तगण्डं,  आविस्स्मितांशुमधुराधरबन्धुजीवम् ।
आस्याब्जसौरभसमुत्सुकदीर्घनासं,  आराधयामि हरिमञ्जनशैलनाथम् ॥ १२॥

अर्धेन्दुभास्वदलिकोल्लसदूर्ध्वपुण्ड्रं,  आलोलनीलकुटिलालकचारुवक्त्रम् ।
आविर्मयूखमणिचूडमहाकिरीटं,  आराधयामि हरिमञ्जनशैलनाथम् ॥ १३॥

वादिभीतिकरार्येण रचिता भावबन्ध तः शोभते वेङ्कटाद्रीशविषया स्तुतिरद्भुता ॥ 

 ॥ इति अञ्जनशैलनाथस्तोत्रं सम्पूर्णम् ॥

No comments

Note: Only a member of this blog may post a comment.