Tritiya Skandha, A-15
श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय -15.
03150010 मैत्रेय उवाच
03150011 प्राजापत्यं तु तत्तेजः परतेजोहनं दितिः
03150012 दधार वर्षाणि शतं शङ्कमाना सुरार्दनात्
03150021 लोके तेनाहतालोके लोकपाला हतौजसः
03150022 न्यवेदयन्विश्वसृजे ध्वान्तव्यतिकरं दिशाम्
03150030 देवा ऊचुः
03150031 तम एतद्विभो वेत्थ संविग्ना यद्वयं भृशम्
03150032 न ह्यव्यक्तं भगवतः कालेनास्पृष्टवर्त्मनः
03150041 देवदेव जगद्धातर्लोकनाथशिखामणे
03150042 परेषामपरेषां त्वं भूतानामसि भाववित्
03150051 नमो विज्ञानवीर्याय माययेदमुपेयुषे
03150052 गृहीतगुणभेदाय नमस्तेऽव्यक्तयोनये
03150061 ये त्वानन्येन भावेन भावयन्त्यात्मभावनम्
03150062 आत्मनि प्रोतभुवनं परं सदसदात्मकम्
03150071 तेषां सुपक्वयोगानां जितश्वासेन्द्रियात्मनाम्
03150072 लब्धयुष्मत्प्रसादानां न कुतश्चित्पराभवः
03150081 यस्य वाचा प्रजाः सर्वा गावस्तन्त्येव
यन्त्रिताः
03150082 हरन्ति बलिमायत्तास्तस्मै मुख्याय ते नमः
03150091 स त्वं विधत्स्व शं भूमंस्तमसा लुप्तकर्मणाम्
03150092 अदभ्रदयया दृष्ट्या आपन्नानर्हसीक्षितुम्
03150101 एष देव दितेर्गर्भ ओजः काश्यपमर्पितम्
03150102 दिशस्तिमिरयन्सर्वा वर्धतेऽग्निरिवैधसि
03150110 मैत्रेय उवाच
03150111 स प्रहस्य महाबाहो भगवान्शब्दगोचरः
03150112 प्रत्याचष्टात्मभूर्देवान्प्रीणन्रुचिरया गिरा
03150120 ब्रह्मोवाच
03150121 मानसा मे सुता युष्मत् पूर्वजाः सनकादयः
03150122 चेरुर्विहायसा लोकाल्लोकेषु विगतस्पृहाः
03150131 त एकदा भगवतो वैकुण्ठस्यामलात्मनः
03150132 ययुर्वैकुण्ठनिलयं सर्वलोकनमस्कृतम्
03150141 वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः
03150142 येऽनिमित्तनिमित्तेन धर्मेणाराधयन्हरिम्
03150151 यत्र चाद्यः पुमानास्ते भगवान्शब्दगोचरः
03150152 सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन्वृषः
03150161 यत्र नैःश्रेयसं नाम वनं कामदुघैर्द्रुमैः
03150162 सर्वर्तुश्रीभिर्विभ्राजत्कैवल्यमिव मूर्तिमत्
03150171 वैमानिकाः सललनाश्चरितानि शश्वद्
03150172 गायन्ति यत्र शमलक्षपणानि भर्तुः
03150173 अन्तर्जलेऽनुविकसन्मधुमाधवीनां
03150174 गन्धेन खण्डितधियोऽप्यनिलं क्षिपन्तः
03150181 पारावतान्यभृतसारसचक्रवाक
03150182 दात्यूहहंसशुकतित्तिरिबर्हिणां यः
03150183 कोलाहलो विरमतेऽचिरमात्रमुच्चैर्
03150184 भृङ्गाधिपे हरिकथामिव गायमाने
03150191 मन्दारकुन्दकुरबोत्पलचम्पकार्ण
03150192 पुन्नागनागबकुलाम्बुजपारिजाताः
03150193 गन्धेऽर्चिते तुलसिकाभरणेन तस्या
03150194 यस्मिंस्तपः सुमनसो बहु मानयन्ति
03150201 यत्सङ्कुलं हरिपदानतिमात्रदृष्टैर्
03150202 वैदूर्यमारकतहेममयैर्विमानैः
03150203 येषां बृहत्कटितटाः स्मितशोभिमुख्यः
03150204 कृष्णात्मनां न रज आदधुरुत्स्मयाद्यैः
03150211 श्री रूपिणी क्वणयती चरणारविन्दं
03150212 लीलाम्बुजेन हरिसद्मनि मुक्तदोषा
03150213 संलक्ष्यते स्फटिककुड्य उपेतहेम्नि
03150214 सम्मार्जतीव यदनुग्रहणेऽन्ययत्नः
03150221 वापीषु विद्रुमतटास्वमलामृताप्सु
03150222 प्रेष्यान्विता निजवने तुलसीभिरीशम्
03150223 अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्रम्
03150224 उच्छेषितं भगवतेत्यमताङ्ग यच्छ्रीः
03150231 यन्न व्रजन्त्यघभिदो रचनानुवादाच्
03150232 छृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः
03150233 यास्तु श्रुता हतभगैर्नृभिरात्तसारास्
03150234 तांस्तान्क्षिपन्त्यशरणेषु तमःसु हन्त
03150241 येऽभ्यर्थितामपि च नो नृगतिं प्रपन्ना
03150242 ज्ञानं च तत्त्वविषयं सहधर्मं यत्र
03150243 नाराधनं भगवतो वितरन्त्यमुष्य
03150244 सम्मोहिता विततया बत मायया ते
03150251 यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या
03150252 दूरे यमा ह्युपरि नः स्पृहणीयशीलाः
03150253 भर्तुर्मिथः सुयशसः कथनानुराग
03150254 वैक्लव्यबाष्पकलया पुलकीकृताङ्गाः
03150261 तद्विश्वगुर्वधिकृतं भुवनैकवन्द्यं
03150262 दिव्यं विचित्रविबुधाग्र्यविमानशोचिः
03150263 आपुः परां मुदमपूर्वमुपेत्य योग
03150264 मायाबलेन मुनयस्तदथो विकुण्ठम्
03150271 तस्मिन्नतीत्य मुनयः षडसज्जमानाः
03150272 कक्षाः समानवयसावथ सप्तमायाम्
03150273 देवावचक्षत गृहीतगदौ परार्ध्य
03150274 केयूरकुण्डलकिरीटविटङ्कवेषौ
03150281 मत्तद्विरेफवनमालिकया निवीतौ
03150282 विन्यस्तयासितचतुष्टयबाहुमध्ये
03150283 वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां
03150284 रक्तेक्षणेन च मनाग्रभसं दधानौ
03150291 द्वार्येतयोर्निविविशुर्मिषतोरपृष्ट्वा
03150292 पूर्वा यथा पुरटवज्रकपाटिका याः
03150293 सर्वत्र तेऽविषमया मुनयः स्वदृष्ट्या
03150294 ये सञ्चरन्त्यविहता विगताभिशङ्काः
03150301 तान्वीक्ष्य वातरशनांश्चतुरः कुमारान्
03150302 वृद्धान्दशार्धवयसो विदितात्मतत्त्वान्
03150303 वेत्रेण चास्खलयतामतदर्हणांस्तौ
03150304 तेजो विहस्य भगवत्प्रतिकूलशीलौ
03150311 ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमानाः
03150312 स्वर्हत्तमा ह्यपि हरेः प्रतिहारपाभ्याम्
03150313 ऊचुः सुहृत्तमदिदृक्षितभङ्ग ईषत्
03150314 कामानुजेन सहसा त उपप्लुताक्षाः
03150320 मुनय ऊचुः
03150321 को वामिहैत्य भगवत्परिचर्ययोच्चैस्
03150322 तद्धर्मिणां निवसतां विषमः स्वभावः
03150323 तस्मिन्प्रशान्तपुरुषे गतविग्रहे वां
03150324 को वात्मवत्कुहकयोः परिशङ्कनीयः
03150331 न ह्यन्तरं भगवतीह समस्तकुक्षाव्
03150332 आत्मानमात्मनि नभो नभसीव धीराः
03150333 पश्यन्ति यत्र युवयोः सुरलिङ्गिनोः किं
03150334 व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य
03150341 तद्वाममुष्य परमस्य विकुण्ठभर्तुः
03150342 कर्तुं प्रकृष्टमिह धीमहि मन्दधीभ्याम्
03150343 लोकानितो व्रजतमन्तरभावदृष्ट्या
03150344 पापीयसस्त्रय इमे रिपवोऽस्य यत्र
03150351 तेषामितीरितमुभाववधार्य घोरं
03150352 तं ब्रह्मदण्डमनिवारणमस्त्रपूगैः
03150353 सद्यो हरेरनुचरावुरु बिभ्यतस्तत्
03150354 पादग्रहावपततामतिकातरेण
03150361 भूयादघोनि भगवद्भिरकारि दण्डो
03150362 यो नौ हरेत सुरहेलनमप्यशेषम्
03150363 मा वोऽनुतापकलया भगवत्स्मृतिघ्नो
03150364 मोहो भवेदिह तु नौ व्रजतोरधोऽधः
03150371 एवं तदैव भगवानरविन्दनाभः
03150372 स्वानां विबुध्य सदतिक्रममार्यहृद्यः
03150373 तस्मिन्ययौ परमहंसमहामुनीनाम्
03150374 अन्वेषणीयचरणौ चलयन्सहश्रीः
03150381 तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भिस्
03150382 तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम्
03150383 हंसश्रियोर्व्यजनयोः शिववायुलोलच्
03150384 छुभ्रातपत्रशशिकेसरशीकराम्बुम्
03150391 कृत्स्नप्रसादसुमुखं स्पृहणीयधाम
03150392 स्नेहावलोककलया हृदि संस्पृशन्तम्
03150393 श्यामे पृथावुरसि शोभितया श्रिया स्वश्
03150394 चूडामणिं सुभगयन्तमिवात्मधिष्ण्यम्
03150401 पीतांशुके पृथुनितम्बिनि विस्फुरन्त्या
03150402 काञ्च्यालिभिर्विरुतया वनमालया च
03150403 वल्गुप्रकोष्ठवलयं विनतासुतांसे
03150404 विन्यस्तहस्तमितरेण धुनानमब्जम्
03150411 विद्युत्क्षिपन्मकरकुण्डलमण्डनार्ह
03150412 गण्डस्थलोन्नसमुखं मणिमत्किरीटम्
03150413 दोर्दण्डषण्डविवरे हरता परार्ध्य
03150414 हारेण कन्धरगतेन च कौस्तुभेन
03150421 अत्रोपसृष्टमिति चोत्स्मितमिन्दिरायाः
03150422 स्वानां धिया विरचितं बहुसौष्ठवाढ्यम्
03150423 मह्यं भवस्य भवतां च भजन्तमङ्गं
03150424 नेमुर्निरीक्ष्य न वितृप्तदृशो मुदा कैः
03150431 तस्यारविन्दनयनस्य पदारविन्द
03150432 किञ्जल्कमिश्रतुलसीमकरन्दवायुः
03150433 अन्तर्गतः स्वविवरेण चकार तेषां
03150434 सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः
03150441 ते वा अमुष्य वदनासितपद्मकोशम्
03150442 उद्वीक्ष्य सुन्दरतराधरकुन्दहासम्
03150443 लब्धाशिषः पुनरवेक्ष्य तदीयमङ्घ्रि
03150444 द्वन्द्वं नखारुणमणिश्रयणं निदध्युः
03150451 पुंसां गतिं मृगयतामिह योगमार्गैर्
03150452 ध्यानास्पदं बहुमतं नयनाभिरामम्
03150453 पौंस्नं वपुर्दर्शयानमनन्यसिद्धैर्
03150454 औत्पत्तिकैः समगृणन्युतमष्टभोगैः
03150460 कुमारा ऊचुः
03150461 योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं
03150462 सोऽद्यैव नो नयनमूलमनन्त राद्धः
03150463 यर्ह्येव कर्णविवरेण गुहां गतो नः
03150464 पित्रानुवर्णितरहा भवदुद्भवेन
03150471 तं त्वां विदाम भगवन्परमात्मतत्त्वं
03150472 सत्त्वेन सम्प्रति रतिं रचयन्तमेषाम्
03150473 यत्तेऽनुतापविदितैर्दृढभक्तियोगैर्
03150474 उद्ग्रन्थयो हृदि विदुर्मुनयो विरागाः
03150481 नात्यन्तिकं विगणयन्त्यपि ते प्रसादं
03150482 किम्वन्यदर्पितभयं भ्रुव उन्नयैस्ते
03150483 येऽङ्ग त्वदङ्घ्रिशरणा भवतः कथायाः
03150484 कीर्तन्यतीर्थयशसः कुशला रसज्ञाः
03150491 कामं भवः स्ववृजिनैर्निरयेषु नः स्ताच्
03150492 चेतोऽलिवद्यदि नु ते पदयो रमेत
03150493 वाचश्च नस्तुलसिवद्यदि तेऽङ्घ्रिशोभाः
03150494 पूर्येत ते गुणगणैर्यदि कर्णरन्ध्रः
03150501 प्रादुश्चकर्थ यदिदं पुरुहूत रूपं
03150502 तेनेश निर्वृतिमवापुरलं दृशो नः
03150503 तस्मा इदं भगवते नम इद्विधेम
03150504 योऽनात्मनां दुरुदयो भगवान्प्रतीतः
No comments
Note: Only a member of this blog may post a comment.