Tritiya Skandha
श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय - 28.
03280010 श्रीभगवानुवाच
03280011 योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे
03280012 मनो येनैव विधिना प्रसन्नं याति सत्पथम्
03280021 स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम्
03280022 दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम्
03280031 ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा
03280032 मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम्
03280041 अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः
03280042 ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम्
03280051 मौनं सदासनजयः स्थैर्यं प्राणजयः शनैः
03280052 प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि
03280061 स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम्
03280062 वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः
03280071 एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम्
03280072 बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रितः
03280081 शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम्
03280082 तस्मिन्स्वस्ति समासीन ऋजुकायः समभ्यसेत्
03280091 प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः
03280092 प्रतिकूलेन वा चित्तं यथा स्थिरमचञ्चलम्
03280101 मनोऽचिरात्स्याद्विरजं जितश्वासस्य योगिनः
03280102 वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम्
03280111 प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषान्
03280112 प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान्
03280121 यदा मनः स्वं विरजं योगेन सुसमाहितम्
03280122 काष्ठां भगवतो ध्यायेत्स्वनासाग्रावलोकनः
03280131 प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम्
03280132 नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम्
03280141 लसत्पङ्कजकिञ्जल्क पीतकौशेयवाससम्
03280142 श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम्
03280151 मत्तद्विरेफकलया परीतं वनमालया
03280152 परार्ध्यहारवलय किरीटाङ्गदनूपुरम्
03280161 काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम्
03280162 दर्शनीयतमं शान्तं मनोनयनवर्धनम्
03280171 अपीच्यदर्शनं शश्वत्सर्वलोकनमस्कृतम्
03280172 सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम्
03280181 कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम्
03280182 ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः
03280191 स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम्
03280192 प्रेक्षणीयेहितं ध्यायेच्छुद्धभावेन चेतसा
03280201 तस्मिन्लब्धपदं चित्तं सर्वावयवसंस्थितम्
03280202 विलक्ष्यैकत्र संयुज्यादङ्गे भगवतो मुनिः
03280211 सञ्चिन्तयेद्भगवतश्चरणारविन्दं
03280212 वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम्
03280213 उत्तुङ्गरक्तविलसन्नखचक्रवाल
03280214 ज्योत्स्नाभिराहतमहद्धृदयान्धकारम्
03280221 यच्छौचनिःसृतसरित्प्रवरोदकेन
03280222 तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत्
03280223 ध्यातुर्मनःशमलशैलनिसृष्टवज्रं
03280224 ध्यायेच्चिरं भगवतश्चरणारविन्दम्
03280231 जानुद्वयं जलजलोचनया जनन्या
03280232 लक्ष्म्याखिलस्य सुरवन्दितया विधातुः
03280233 ऊर्वोर्निधाय करपल्लवरोचिषा यत्
03280234 संलालितं हृदि विभोरभवस्य कुर्यात्
03280241 ऊरू सुपर्णभुजयोरधि शोभमानाव्
03280242 ओजोनिधी अतसिकाकुसुमावभासौ
03280243 व्यालम्बिपीतवरवाससि वर्तमान
03280244 काञ्चीकलापपरिरम्भि नितम्बबिम्बम्
03280251 नाभिह्रदं भुवनकोशगुहोदरस्थं
03280252 यत्रात्मयोनिधिषणाखिललोकपद्मम्
03280253 व्यूढं हरिन्मणिवृषस्तनयोरमुष्य
03280254 ध्यायेद्द्वयं विशदहारमयूखगौरम्
03280261 वक्षोऽधिवासमृषभस्य महाविभूतेः
03280262 पुंसां मनोनयननिर्वृतिमादधानम्
03280263 कण्ठं च कौस्तुभमणेरधिभूषणार्थं
03280264 कुर्यान्मनस्यखिललोकनमस्कृतस्य
03280271 बाहूंश्च मन्दरगिरेः परिवर्तनेन
03280272 निर्णिक्तबाहुवलयानधिलोकपालान्
03280273 सञ्चिन्तयेद्दशशतारमसह्यतेजः
03280274 शङ्खं च तत्करसरोरुहराजहंसम्
03280281 कौमोदकीं भगवतो दयितां स्मरेत
03280282 दिग्धामरातिभटशोणितकर्दमेन
03280283 मालां मधुव्रतवरूथगिरोपघुष्टां
03280284 चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे
03280291 भृत्यानुकम्पितधियेह गृहीतमूर्तेः
03280292 सञ्चिन्तयेद्भगवतो वदनारविन्दम्
03280293 यद्विस्फुरन्मकरकुण्डलवल्गितेन
03280294 विद्योतितामलकपोलमुदारनासम्
03280301 यच्छ्रीनिकेतमलिभिः परिसेव्यमानं
03280302 भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम्
03280303 मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं
03280304 ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु
03280311 तस्यावलोकमधिकं कृपयातिघोर
03280312 तापत्रयोपशमनाय निसृष्टमक्ष्णोः
03280313 स्निग्धस्मितानुगुणितं विपुलप्रसादं
03280314 ध्यायेच्चिरं विपुलभावनया गुहायाम्
03280321 हासं हरेरवनताखिललोकतीव्र
03280322 शोकाश्रुसागरविशोषणमत्युदारम्
03280323 सम्मोहनाय रचितं निजमाययास्य
03280324 भ्रूमण्डलं मुनिकृते मकरध्वजस्य
03280331 ध्यानायनं प्रहसितं बहुलाधरोष्ठ
03280332 भासारुणायिततनुद्विजकुन्दपङ्क्ति
03280333 ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोर्
03280334 भक्त्यार्द्रयार्पितमना न पृथग्दिदृक्षेत्
03280341 एवं हरौ भगवति प्रतिलब्धभावो
03280342 भक्त्या द्रवद्धृदय उत्पुलकः प्रमोदात्
03280343 औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानस्
03280344 तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते
03280351 मुक्ताश्रयं यर्हि निर्विषयं विरक्तं
03280352 निर्वाणमृच्छति मनः सहसा यथार्चिः
03280353 आत्मानमत्र पुरुषोऽव्यवधानमेकम्
03280354 अन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः
03280361 सोऽप्येतया चरमया मनसो निवृत्त्या
03280362 तस्मिन्महिम्न्यवसितः सुखदुःखबाह्ये
03280363 हेतुत्वमप्यसति कर्तरि दुःखयोर्यत्
03280364 स्वात्मन्विधत्त उपलब्धपरात्मकाष्ठः
03280371 देहं च तं न चरमः स्थितमुत्थितं वा
03280372 सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम्
03280373 दैवादुपेतमथ दैववशादपेतं
03280374 वासो यथा परिकृतं मदिरामदान्धः
03280381 देहोऽपि दैववशगः खलु कर्म यावत्
03280382 स्वारम्भकं प्रतिसमीक्षत एव सासुः
03280383 तं सप्रपञ्चमधिरूढसमाधियोगः
03280384 स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः
03280391 यथा पुत्राच्च वित्ताच्च पृथङ्मर्त्यः प्रतीयते
03280392 अप्यात्मत्वेनाभिमताद्देहादेः पुरुषस्तथा
03280401 यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि
स्वसम्भवात्
03280402 अप्यात्मत्वेनाभिमताद्यथाग्निः पृथगुल्मुकात्
03280411 भूतेन्द्रियान्तःकरणात्प्रधानाज्जीवसंज्ञितात्
03280412 आत्मा तथा पृथग्द्रष्टा भगवान्ब्रह्मसंज्ञितः
03280421 सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
03280422 ईक्षेतानन्यभावेन भूतेष्विव तदात्मताम्
03280431 स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते
03280432 योनीनां गुणवैषम्यात्तथात्मा प्रकृतौ स्थितः
03280441 तस्मादिमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम्
03280442 दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते
No comments
Note: Only a member of this blog may post a comment.