Tritiya Skandha
श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय - 21
03210010 विदुर उवाच
03210011 स्वायम्भुवस्य च मनोरंशः परमसम्मतः
03210012 कथ्यतां भगवन्यत्र मैथुनेनैधिरे प्रजाः
03210021 प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै
03210022 यथाधर्मं जुगुपतुः सप्तद्वीपवतीं महीम्
03210031 तस्य वै दुहिता ब्रह्मन्देवहूतीति विश्रुता
03210032 पत्नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ
03210041 तस्यां स वै महायोगी युक्तायां योगलक्षणैः
03210042 ससर्ज कतिधा वीर्यं तन्मे शुश्रूषवे वद
03210051 रुचिर्यो भगवान्ब्रह्मन्दक्षो वा ब्रह्मणः सुतः
03210052 यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम्
03210060 मैत्रेय उवाच
03210061 प्रजाः सृजेति भगवान्कर्दमो ब्रह्मणोदितः
03210062 सरस्वत्यां तपस्तेपे सहस्राणां समा दश
03210071 ततः समाधियुक्तेन क्रियायोगेन कर्दमः
03210072 सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम्
03210081 तावत्प्रसन्नो भगवान्पुष्कराक्षः कृते युगे
03210082 दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद्वपुः
03210091 स तं विरजमर्काभं सितपद्मोत्पलस्रजम्
03210092 स्निग्धनीलालकव्रात वक्त्राब्जं विरजोऽम्बरम्
03210101 किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम्
03210102 श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम्
03210111 विन्यस्तचरणाम्भोजमंसदेशे गरुत्मतः
03210112 दृष्ट्वा खेऽवस्थितं वक्षः श्रियं
कौस्तुभकन्धरम्
03210121 जातहर्षोऽपतन्मूर्ध्ना क्षितौ लब्धमनोरथः
03210122 गीर्भिस्त्वभ्यगृणात्प्रीति स्वभावात्मा
कृताञ्जलिः
03210130 ऋषिरुवाच
03210131 जुष्टं बताद्याखिलसत्त्वराशेः सांसिद्ध्यमक्ष्णोस्तव
दर्शनान्नः
03210132 यद्दर्शनं जन्मभिरीड्य सद्भिराशासते योगिनो
रूढयोगाः
03210141 ये मायया ते हतमेधसस्त्वत् पादारविन्दं
भवसिन्धुपोतम्
03210142 उपासते कामलवाय तेषां रासीश कामान्निरयेऽपि ये
स्युः
03210151 तथा स चाहं परिवोढुकामः समानशीलां गृहमेधधेनुम्
03210152 उपेयिवान्मूलमशेषमूलं दुराशयः
कामदुघाङ्घ्रिपस्य
03210161 प्रजापतेस्ते वचसाधीश तन्त्या लोकः किलायं
कामहतोऽनुबद्धः
03210162 अहं च लोकानुगतो वहामि बलिं च शुक्लानिमिषाय
तुभ्यम्
03210171 लोकांश्च लोकानुगतान्पशूंश्च हित्वा श्रितास्ते
चरणातपत्रम्
03210172 परस्परं त्वद्गुणवादसीधु
पीयूषनिर्यापितदेहधर्माः
03210181 न तेऽजराक्षभ्रमिरायुरेषां त्रयोदशारं त्रिशतं
षष्टिपर्व
03210182 षण्नेम्यनन्तच्छदि यत्त्रिणाभि करालस्रोतो
जगदाच्छिद्य धावत्
03210191 एकः स्वयं सन्जगतः सिसृक्षया द्वितीययात्मन्नधियोगमायया
03210192 सृजस्यदः पासि पुनर्ग्रसिष्यसे
यथोर्णनाभिर्भगवन्स्वशक्तिभिः
03210201 नैतद्बताधीश पदं तवेप्सितं यन्मायया नस्तनुषे
भूतसूक्ष्मम्
03210202 अनुग्रहायास्त्वपि यर्हि मायया लसत्तुलस्या
भगवान्विलक्षितः
03210211 तं त्वानुभूत्योपरतक्रियार्थं स्वमायया
वर्तितलोकतन्त्रम्
03210212 नमाम्यभीक्ष्णं नमनीयपाद सरोजमल्पीयसि
कामवर्षम्
03210220 ऋषिरुवाच
03210221 इत्यव्यलीकं प्रणुतोऽब्जनाभस्तमाबभाषे
वचसामृतेन
03210222 सुपर्णपक्षोपरि रोचमानः
प्रेमस्मितोद्वीक्षणविभ्रमद्भ्रूः
03210230 श्रीभगवानुवाच
03210231 विदित्वा तव चैत्यं मे पुरैव समयोजि तत्
03210232 यदर्थमात्मनियमैस्त्वयैवाहं समर्चितः
03210241 न वै जातु मृषैव स्यात्प्रजाध्यक्ष मदर्हणम्
03210242 भवद्विधेष्वतितरां मयि सङ्गृभितात्मनाम्
03210251 प्रजापतिसुतः सम्राण्मनुर्विख्यातमङ्गलः
03210252 ब्रह्मावर्तं योऽधिवसन्शास्ति सप्तार्णवां
महीम्
03210261 स चेह विप्र राजर्षिर्महिष्या शतरूपया
03210262 आयास्यति दिदृक्षुस्त्वां परश्वो धर्मकोविदः
03210271 आत्मजामसितापाङ्गीं वयःशीलगुणान्विताम्
03210272 मृगयन्तीं पतिं दास्यत्यनुरूपाय ते प्रभो
03210281 समाहितं ते हृदयं यत्रेमान्परिवत्सरान्
03210282 सा त्वां ब्रह्मन्नृपवधूः काममाशु भजिष्यति
03210291 या त आत्मभृतं वीर्यं नवधा प्रसविष्यति
03210292 वीर्ये त्वदीये ऋषय आधास्यन्त्यञ्जसात्मनः
03210301 त्वं च सम्यगनुष्ठाय निदेशं म उशत्तमः
03210302 मयि तीर्थीकृताशेष क्रियार्थो मां प्रपत्स्यसे
03210311 कृत्वा दयां च जीवेषु दत्त्वा चाभयमात्मवान्
03210312 मय्यात्मानं सह जगद्द्रक्ष्यस्यात्मनि चापि
माम्
03210321 सहाहं स्वांशकलया त्वद्वीर्येण महामुने
03210322 तव क्षेत्रे देवहूत्यां प्रणेष्ये
तत्त्वसंहिताम्
03210330 मैत्रेय उवाच
03210331 एवं तमनुभाष्याथ भगवान्प्रत्यगक्षजः
03210332 जगाम बिन्दुसरसः सरस्वत्या परिश्रितात्
03210341 निरीक्षतस्तस्य ययावशेष
सिद्धेश्वराभिष्टुतसिद्धमार्गः
03210342 आकर्णयन्पत्ररथेन्द्रपक्षैरुच्चारितं
स्तोममुदीर्णसाम
03210351 अथ सम्प्रस्थिते शुक्ले कर्दमो भगवानृषिः
03210352 आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन्
03210361 मनुः स्यन्दनमास्थाय शातकौम्भपरिच्छदम्
03210362 आरोप्य स्वां दुहितरं सभार्यः पर्यटन्महीम्
03210371 तस्मिन्सुधन्वन्नहनि भगवान्यत्समादिशत्
03210372 उपायादाश्रमपदं मुनेः शान्तव्रतस्य तत्
03210381 यस्मिन्भगवतो नेत्रान्न्यपतन्नश्रुबिन्दवः
03210382 कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम्
03210391 तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम्
03210392 पुण्यं शिवामृतजलं महर्षिगणसेवितम्
03210401 पुण्यद्रुमलताजालैः कूजत्पुण्यमृगद्विजैः
03210402 सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम्
03210411 मत्तद्विजगणैर्घुष्टं मत्तभ्रमरविभ्रमम्
03210412 मत्तबर्हिनटाटोपमाह्वयन्मत्तकोकिलम्
03210421 कदम्बचम्पकाशोक करञ्जबकुलासनैः
03210422 कुन्दमन्दारकुटजैश्चूतपोतैरलङ्कृतम्
03210431 कारण्डवैः प्लवैर्हंसैः कुररैर्जलकुक्कुटैः
03210432 सारसैश्चक्रवाकैश्च चकोरैर्वल्गु कूजितम्
03210441 तथैव हरिणैः क्रोडैः श्वाविद्गवयकुञ्जरैः
03210442 गोपुच्छैर्हरिभिर्मर्कैर्नकुलैर्नाभिभिर्वृतम्
03210451 प्रविश्य तत्तीर्थवरमादिराजः सहात्मजः
03210452 ददर्श मुनिमासीनं तस्मिन्हुतहुताशनम्
03210461 विद्योतमानं वपुषा तपस्युग्रयुजा चिरम्
03210462 नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात्
03210463 तद्व्याहृतामृतकला पीयूषश्रवणेन च
03210471 प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम्
03210472 उपसंश्रित्य मलिनं यथार्हणमसंस्कृतम्
03210481 अथोटजमुपायातं नृदेवं प्रणतं पुरः
03210482 सपर्यया पर्यगृह्णात्प्रतिनन्द्यानुरूपया
03210491 गृहीतार्हणमासीनं संयतं प्रीणयन्मुनिः
03210492 स्मरन्भगवदादेशमित्याह श्लक्ष्णया गिरा
03210501 नूनं चङ्क्रमणं देव सतां संरक्षणाय ते
03210502 वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालिनी
03210511 योऽर्केन्द्वग्नीन्द्रवायूनां यमधर्मप्रचेतसाम्
03210512 रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः
03210521 न यदा रथमास्थाय जैत्रं मणिगणार्पितम्
03210522 विस्फूर्जच्चण्डकोदण्डो रथेन त्रासयन्नघान्
03210531 स्वसैन्यचरणक्षुण्णं वेपयन्मण्डलं भुवः
03210532 विकर्षन्बृहतीं सेनां पर्यटस्यंशुमानिव
03210541 तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः
03210542 भगवद्रचिता राजन्भिद्येरन्बत दस्युभिः
03210551 अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभिः
03210552 शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनङ्क्ष्यति
03210561 अथापि पृच्छे त्वां वीर यदर्थं त्वमिहागतः
03210562 तद्वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा
No comments
Note: Only a member of this blog may post a comment.