Breaking News

नारायणीयम् । भाग - 63. गोवर्धन धारण लीला ।। SANSTHANAM.

नारायणीयम् । भाग - 63. गोवर्धन धारण लीला ।। SANSTHANAM.

ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः ।
सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥ ६३-१॥

विपुलकरकमिश्रैस्तोयधारानिपातै-
र्दिशि दिशि पशुपानां मण्डले दण्ड्यमाने ।
कुपितहरिकृतान्नः पाहि पाहीति तेषां
वचनमजित श्रुण्वन्मा बिभीतेत्यभाणीः ॥ ६३-२॥

कुल इह खलु गोत्रो दैवतं गोत्रशत्रो-
र्विहतिमिह स रुन्ध्यात्को नुः वः संशायोऽस्मिन् ।
इति सहसितवादी देव गोवर्धनाद्रिं
त्वरितमुदमुमूलो मूलतो बाल दोर्भ्याम् ॥ ६३-३॥

तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत्
सिकतिलमृदुदेशे दूरतो वारितापे ।
परिकरपरिमिश्रान्धेनुगोपानधस्ता-
दुपनिदधदधत्था हस्तपद्मेन शैलम् ॥ ६३-४॥

भवति विधृतशैले बालिकाभिर्वयस्यै-
रपि विहितविलासं केलिलापादिलोले ।
सविधमिलितधेनूरेकहस्तेन कण्दू-
यति सति पशुपालास्तोषमैषन्त सर्वे ॥ ६३-५॥

अतिमहान् गिरिरेष तु वामके करसरोरुहि तं धरते चिरम् ।
किमिदमद्भुतमद्रिबलन्विति त्वदवलोकिभिराकथि गोपकैः ॥ ६३-६॥

अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् ।
इति हरिस्त्वयि बद्धविगर्हणो दिवससप्तकमुग्रमवर्षयत् ॥ ६३-७॥

अचलति त्वयि देव पदात्पदं गलितसर्वजले च घनोत्करे ।
अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् ॥ ६३-८॥

शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते ।
भुवि विभो समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥ ६३-९॥

धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः ।
इति नुतस्त्रिदशैः कमलापते गुरुपुरालय पालय मां गदात् ॥ ६३-१०॥

No comments

Note: Only a member of this blog may post a comment.